|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.144. अध्यायः 144
Mahabharata - Drona Parva - Chapter Topics
सञ्जयेन धृतराष्ट्रम्प्रति सात्यकेः भूरिश्रवसा पराभवकारणकथनम्॥ 1 ॥ तथा यादवानां प्रशंसनम्॥ 2 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-144-0x(4638)(51159)
अजितो द्रोणराधेयविकर्णकृतवर्मभिः।
`यश्चैवोत्सहते वेतुं समस्तं मामकं बलम'।
तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे॥ 7-144-1(51160)
स कथं कौरवेयेण समरेष्वनिवारितः।
निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः॥ 7-144-2(51161)
सञ्जय उवाच। 7-144-3x(4639)
शृणु राजन्निहोत्पत्तिं शैनेयस्य यथा पुरा।
यथा च भूरिश्रवसो यत्र ते संशयो नृप॥ 7-144-3(51162)
`ब्रह्मणस्त्वभवत्पुत्रो मानसोऽत्रिर्महातपाः'।
अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु बुधः स्मृतः॥ 7-144-4(51163)
बुधस्यैलो महाबाहुः पुत्र आसीत्पुरूरवाः।
पुरूरवस आयुस्तु आयुषो नहुषः सुतः॥ 7-144-5(51164)
नहुषस्य ययातिस्तु राजा देवर्षिसम्मतः।
ययातेर्देवयान्यां तु यदुर्ज्येष्ठोऽभवत्सुतः॥ 7-144-6(51165)
यदोरभूदन्ववाये आजमीढ इति स्मृतः।
यादवस्तस्य तु सुतः शूरस्त्रैलोक्यसम्मतः॥ 7-144-7(51166)
शूरस्य शौरिर्नृवरो वसुदेवो महायशाः।
धनुष्यनवरः शूरः कार्तवीर्यसमो युधि।
धनुष्यनवरः शूरः कार्तवीर्यसमो युधि।
तद्वार्यश्चापि तत्रैव कुले शिनिरभून्नृप॥ 7-144-8(51167)
एतस्मिन्नेव काले तु देवकस्य महात्मनः।
दुहितः स्वयंवरे राजन्सर्वक्षत्रसमागमे॥ 7-144-9(51168)
तत्र वै देवकीं देवीं वसुदेवार्थमाशु वै।
निर्जित्व पार्थिवान्सर्वान्रथमारोपयच्छिनिः॥ 7-144-10(51169)
तां दृष्ट्वा देवकीं शूरो रथस्थां पुरुषर्षभः।
नामृष्यत महातेजाः सोमदत्तः शिनेर्नृप॥ 7-144-11(51170)
तयोर्युद्धमभूद्राजन्दिनार्धं चित्रमुद्भतम्।
बाहुयुद्धं सुबलिनोः प्रसक्तं पुरुषर्षभः॥ 7-144-12(51171)
शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः।
असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः॥ 7-144-13(51172)
मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः।
कृपया च पुनस्तेन स जीवेति विसर्जितः॥ 7-144-14(51173)
तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष।
प्रासादयन्महादेवममर्षवशमास्थितः॥ 7-144-15(51174)
तस्य तुष्टो महादेवो वराणां वरदः प्रभुः।
वरेण च्छन्दयामास स तु वव्रे वरं नृपः॥ 7-144-16(51175)
पुत्रमिच्छामि भगवन्यो निपात्य शिनेः सुतम्।
मध्ये राजसहस्राणां पदा हन्याच्च संयुगे॥ 7-144-17(51176)
तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिव।
एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत।
स तेन वरदानेन लब्धवान्भूरिदक्षिणम्॥ 7-144-18(51177)
अपातयच्च समरे सौमदत्तिः शिनेः सुतम्।
पश्यतां सर्वसैन्यानां पदा चैनमताडयत्॥ 7-144-19(51178)
एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसि।
न हि शक्यो रणे जेतुं सात्वतो मनुजर्षभैः॥ 7-144-20(51179)
लब्धलक्ष्याश्च सङ्ग्रामे बहुशश्चित्रयोधिनः।
देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः।
स्ववीर्यविजये युक्ता नैते परपरिग्रहाः॥ 7-144-21(51180)
न तुल्यं वृष्णिभिरिह दृश्यते किञ्चन प्रभो।
भूतं भव्यं भविष्यच्च बलेन भरतर्षभ॥ 7-144-22(51181)
न ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः॥ 7-144-23(51182)
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः।
जेतारो वृष्णिवीराणां किं पुनर्मानवा रणे॥ 7-144-24(51183)
ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिस्वे चाप्यहिंसकाः।
एतेषां रक्षितारश्च ये स्युः कस्याञ्चिदापदि॥ 7-144-25(51184)
अर्थवन्तो न चोत्सिक्ता ब्रह्मण्याः सत्यवादिनः।
समर्थान्नावमन्यन्ते दीनानभ्युद्वरन्ति च॥ 7-144-26(51185)
नित्यं देवपरा दान्तास्त्रातारश्चाविकत्थनाः।
तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते॥ 7-144-27(51186)
अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालयम्।
न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप॥ 7-144-28(51187)
एतत्ते सर्वमाख्यातं यत्र ते संशयः प्रभो।
कुरुराज नरश्रेष्ठ तव व्यपनयो महान्॥ ॥ 7-144-29(51188)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे चतुश्चत्वारिंशदधिकशततमोऽध्यायः॥ 144 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-144-21 परपग्रहाः रिपराधीनाः॥ 21 ॥ 5-144-27 चक्रं प्रतापः॥ 5-144-144 चतुश्चत्वारिंशदधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|